पूर्वम्: ६।३।९३
अनन्तरम्: ६।३।९५
 
सूत्रम्
सहस्य सध्रिः॥ ६।३।९४
काशिका-वृत्तिः
सहस्य सध्रिः ६।३।९५

सह इत्येतस्य सघ्रिः इत्ययम् आदेशो भवति अञ्चतौ वप्रत्यान्ते उत्तरपदे। सघ्र्यङ् सघ्र्यज्चौ, सघ्र्यञ्चः। सघ्रीचः। सघ्रीचा।
लघु-सिद्धान्त-कौमुदी
सहस्य सध्रिः ३४१, ६।३।९४

तथा। सध्र्यङ्॥ ,
न्यासः
सहस्य सध्रिः। , ६।३।९४

"सध्रीचा" इति। पूर्ववदकारलोपः, दीर्घत्वं च॥
बाल-मनोरमा
सहस्य सध्रिः , ६।३।९४

सहस्य सध्रिः।सहस्य सध्रिः स्यादप्रत्ययान्तेऽञ्चतौ परे इति व्याख्यानं सुगमत्वादुपेक्षितम्। सध्र्यङिति। सह अञ्चतीति विग्रहे क्विन्नादि पूर्ववत्। सहस्य सध्र्यादेशे यण्।

तत्त्व-बोधिनी
सहस्य सध्रिः ३७४, ६।३।९४

सध्र्यङ्। भविषये अल्लोपदीर्घौ। सध्रीच इत्यादि।